Subramanya Ashtakam –  सुब्रह्मण्य अष्टकम

नमॊऽस्तु बृन्दारकबृन्दवन्द्य-पादारविन्दाय सुधाकराय ।

षडाननायामितविक्रमाय गौरीहृदानन्दसमुद्भवाय ॥ १ ॥

नमॊऽस्तु तुभ्यं प्रणतार्तिहन्त्रॆ कर्त्रॆ समस्तस्य मनॊरथानाम् ।

दात्रॆ रतानां परतारकस्य हन्त्रॆ प्रचण्डासुरतारकस्य ॥ २ ॥

अमूर्तमूर्तायसहस्रमूर्तयॆ गुणायगुण्यायपरात्पराय ।

अपारपाराय परात्पराय नमॊऽस्तु तुभ्यं शिखिवाहनाय ॥ ३ ॥

नमॊऽस्तु तॆ ब्रह्मविदांवराय दिगंबरायाम्बरसंस्थिताय ।

हिरण्यवर्णाय हिरण्यबाहवॆ नमॊ हिरण्याय हिरण्यरॆतसॆ ॥ ४ ॥

तपःस्वरूपाय तपॊधनाय तपः फलानां प्रतिपादकाय ।

सदा कुमाराय हिमारमारिणॆ तृणीकृतैश्वर्यविरागिणॆ नमः ॥ ५ ॥

नमॊऽस्तु तुभ्यं शरजन्मनॆ विभॊ प्रभातसूर्यारुण दन्तपङ्क्तयॆ ।

बालाय चाबालपराक्रमाय षण्मातुराबालमनातुराय ॥ ६ ॥

मीढुष्टमायॊत्तरमीढुषॆ नमॊ नमॊ गणानांपतयॆ गणाय ।

नमॊऽस्तु तॆ जन्मजरातिगाय नमॊ विशाखाय सुशक्तिपाणयॆ ॥ ७ ॥

सर्वस्यनाथस्य कुमारकाय क्रौञ्चारयॆ तारकमारकाय ।

स्वाहॆय गांगॆय च कार्तिकॆय शैलॆय तुभ्यं सततं नमॊऽस्तु ॥ ८ ॥

Previous Surya Ashtakam – सूर्य अष्टकम

TheBhajan.com. All Rights Reserved