भुजगतल्पगतं घनसुन्दरं गरुड़वाहनमम्बुजलोचनम् ।
नलिनचक्रगदाकरमव्ययं भजत रे मनुजा: कमलापतिम् ।।1।।
अलिकुलासितकोमलकुंतलं विमलपीतदुकूलमनोहरम् ।
जलधिजांकितवामकलेवरं भजत रे मनुजा: कमलापतिम् ।।2।।
किमु जपैश्च तपोभिरुताध्वरैरपि किमुत्तमतीर्थनिषेवणै: ।
किमुत शास्त्रकदम्बविलोकनैर्भजत रे मनुजा: कमलापतिम् ।।3।।
मनुजदेहमिमं भुवि दुर्लभं समधिगम्य सुरैरपि वाँछितम् ।
विषयलम्पटतामपहाय वै भजत रे मनुजा: कमलापतिम् ।।4।।
न वनिता न सुतो न सहोदरो न हि पिता जननी न च बांधव: ।
व्रजति साकमनेन जनेन वै भजत रे मनुजा: कमलापतिम् ।।5।।
सकलमेव चलं सचराचरं जगदिदं सुतरां धनयौवनम् ।
समवलोक्य विवेकदृशा द्रुतं भजत रे मनुजा: कमलापतिम् ।।6।।
विविधरोगयुतं क्षणभंगुरं परवशं नवमार्गमलाकुलम् ।
परिनिरीक्ष्य शरीरमिदं स्वकं भजत रे मनुजा: कमलापतिम् ।।7।।
मुनिवरैरनिशं ह्रदि भावितं शिवविरिञचिमहेन्द्रनुतं सदा ।
मरणजन्मजराभयमोचनं भजत रे मनुजा: कमलापतिम् ।।8।।
हरिपदाष्टकमेतदनुत्तमं परमहंसजनेन समीरितम् ।
पठति यस्तु समाहितचेतसा व्रजति विष्णुपदं स नरो ध्रुवम् ।।9।।