यतोऽनन्तशक्तेरनंताश्च जीवा यतोनिर्गुणादप्रमेया गुणास्ते ।
यतो भाति सर्वं त्रिधा भेदभिन्नं सदा तं गणेशं नमामो भजाम: ।।1।।
यतश्रचाविरासोज्जगत्सर्वमेतत्तथाऽब्जासनो विश्र्वगो विश्र्वगोप्ता ।
तथेंद्रादयो देवसंघा मनुष्या: सदा तं गणेशं नमामो भजाम: ।।2।।
यतो वहिनभानू भवो भूर्जलं च यत: सागराश्र्चन्द्रमा व्योम वायु: ।
यत: स्थावरा जंगमा वृक्षसंघा सदा तं गणेशं नमामो भजाम: ।।3।।
यतो दानवा: किन्नरा यक्षसंघा यतश्र्चारणा वारणा: श्रवापदाश्र्च ।
यत: पक्षिकीटा यतो वीरूधश्र्च सदा तं गणेशं नमामो भजाम: ।।4।।
यतो बुद्धिरज्ञाननाशो मुमुक्षोर्यत: संपदो भक्ति सन्तोषिका: स्यु: ।
यतो यत: कार्यसिद्धि सदा तं गणेश नमामो भजाम: ।।5।।
यत: पुत्रसंपद्यतो वांछितार्थो यतोऽभक्तिाविघ्नास्तथाऽनेकरूपा: ।
यत: शोकमोहौ यत: काम एव सदा तं गणेशं नमामो भजाम: ।।6।।
यतोऽनंतशक्ति: स शेषो वभूव धराधारणेऽनेकरुपे च शक्त: ।
यतोऽनेकधा स्वर्गलोका हि नाना सदा तं गणेशं नमामो भजाम: ।।7।।
यतो वेदवाचोऽतिकुंठा मनोभि: सदा नेति नेतिति यत्ता ग्रणन्ति ।
परब्रह्मरूपं चिदानन्दभूतं सदा तं गणेशं नमामो भजाम: ।।8।।